मम गृहस्य पार्श्वभागे एक: वटवृक्ष: अस्ति। प्रस्तुतमासे तस्मिन् वृक्षे बहूनि फलानि भवन्ति। अस्य वृक्षस्य फलं पक्षिभ्य: अतीव रोचते। प्रात: काले एव अनेकानि पक्षिण: फलं खादितुम् आगच्छन्ति। बहुविधानि पक्षिण: अस्मिन् वृक्षे दृश्यन्ते।
विशेषत: अनेका: पिका:आगच्छन्ति। कोकिलानां कलरवं श्रुत्वा एव अहं प्रतिदिनम् उत्तिष्ठामि। घटिकायन्त्रस्य आवश्यकता एव नास्ति। प्रतिदिनस्य एतत् अनुभवं मधुरं भवति।
Disclaimer:
संस्कृतं न जानामि न जानामि पाणिनिम्।
पदार्थमपि न जानामि क्षमस्व वागीश्वरि॥


वरं प्रयासम् अस्ति ।
फलं खदितुम् आगच्छन्ति इति शुद्धः उपयोगः अस्ति इति मन्ये।
अभ्यासो न हि त्यक्तव्योऽभ्यासो हि परं बलम्।
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्।
सुन्दरः प्रयासः अस्ति इति शुद्धः प्रयोगः अस्ति। क्षम्यताम् ।
धन्यवाद:, अधुना correction कृतवान्।
अत्यन्त श्लाघनीय प्रयत्नः !
धन्यवाद: हरि|