पक्षिणः जननम् (Birth of Bulbuls)

June 29, 2014
मम गृहस्य परिसरे विद्यमानानां पक्षिणः विषये अत्र, अत्रअत्र पूर्व्ं मया लिखितमस्ति | गृहसस्याणि खगान् आकर्षयन्ति इति विचारे मम गृहमेव प्रमाणमित्यहं मन्ये| एकदा पाकशालायाः नालिकायामेव नीडनिर्माणं कृतं पक्षिणा| अद्यत्वे द्वौ पक्षिणौ अस्माकमुद्याने निवेशनं कृत्वा शिशू प्राप्तवन्तौ । अस्य वृत्तन्तस्य विवरणं करोमि अत्र|
Bulbul's nest

Bulbul’s nest

उद्यानस्य एकस्मिन् भागे मल्लिका लता अस्ति। तत्र वयं अनेकवारं न गच्छामः । एकदा तस्यां लतायां नीडमेकं दृष्टवान् । सामान्यतः पक्षी सुरक्षितस्थले नीडस्य रचनं करोति, किन्तु एतत् नीडं भूम्याः निकटे एव आसीत्। अपि च नीडे अल्पाकारयुक्तौ पिङ्गलवर्णबिन्दुयुक्तौ द्वौ अण्डौ आस्तां!

Bulbul's eggs

Bulbul’s eggs

अण्डं तु दृष्टवान् किन्तु कस्य खगस्य अण्डमिति ज्ञातुं पार्श्वे स्थित्वा पक्षिणः निरीक्षणं कृतवान्|  किञ्चित्कालानन्तरं नीडस्योपरि उपविशन्तं मस्तके किरीटसदृश पक्षयुक्तं पक्षिणं दृष्टवान्| एषः पक्षी बेङ्गलूरु-नगरे सामान्यतः दृश्यते| अस्य नाम आङ्गलभाषायां Red-whiskered Bulbul इति अस्ति| K N Dave महोदयेन लिखितं “Birds in Sanskrit Literature” पुस्तके अस्य नाम गोवत्सकः इति दत्तमस्ति|

Red-whiskered bulbul

Red-whiskered bulbul

पश्चात् नितराम् नीडे एव उपविशन्तं पक्षिणं दृष्टवन्त:। दिनद्वयानन्तरम् अण्डाभ्यां द्वौ अरोमयुक्तौ शिशू बहिरागतवन्तौ। जन्मस्य तत्क्षणं तौ पक्षिणः शिशवः इव न दृश्येते स्म ।

Bulbul chicks - right after birth

Bulbul chicks – right after birth

यदा द्वित्राणि दिनानि अतीतानि, रोमं पक्षं च प्रप्तवन्तौ। शिशोः प्रथम-उड्डयनं द्रष्टुम् अस्माकम् आशा आसीत् किन्तु कदा पक्षिण: सर्वे नीडं त्यक्तवन्तः इति न अवगतमेव अस्माभिः!

4 days old bulbul chicks

4 days old bulbul chicks

Disclaimer:
संस्कृतं न जानामि न जानामि पाणिनिम्।
पदार्थमपि  न जानामि क्षमस्व वागीश्वरि॥

Advertisements

पक्षिणः नीडम्

November 3, 2013
मम गृहस्य पाकशालायां chimney यन्त्रः अस्ति। तस्मात् यन्त्रात् एका नालिका गृहस्य बहिर्गच्छति | तया नालिकया पचनसमये उद्भवः वायुः बहिः प्रसरति | एकदा अहं गृहस्य बहिर्भागतः तां नालिकां प्रवेशं कुर्वन्तं पक्षिणं दृष्टवान् | तत्क्षणमेव मया अवगतं – यत् नालिकायां नीडस्य निर्माणं कर्तुं पक्षिणः इच्छा अस्ति इति | प्रतिदिनं पचनसमये नालिकया उष्णवायुः आगच्छति, अतः एतत् स्थलं नीडनिर्माणार्थम् उचितं नास्त्येव इति मम अभिमतमासीत् | पक्षिणः कार्यभङ्गं कर्तुं यदा यदा सः नालिकां प्रविशति, तदा तदा अहं यन्त्रचालनं कृतवान् | किन्तु पक्षिणः निश्चयमचलमासीत् | तेन नीडनिर्माणकार्यं न स्थगितमेव | अतः अहमेव पराजयं स्वीकृत्य पाकशालायां अनिर्दिष्टकालपर्यन्तं यन्त्रचालनं न करणीयमिति मात्रे पत्न्यै च सूचनां दत्तवान् |
IMG_4060
IMG_4063

अल्पाकारयुतस्य (४ अङ्गुलि) अस्य खगस्य नाम scaly breasted munia इति आसीत् | द्विवासरपर्यन्तं प्रतिदिनं प्रतिक्षणं तृणमानीय पक्षिणौ मातापितरौ नीडनिर्माणं कृतवन्तौ | नीडस्य मुखभागमेव नालिकायाः बहिः दृश्यते स्म | बालखगान् द्रष्टुमस्माकमाशा आसीत् किन्तु मासानन्तरं काञ्चिदपि खगान् वयं न दृष्टवन्तः | प्रायश: बालखगैः सह मातपितरौ नीडं त्यक्तवन्तौ इति वयं अचिन्तयन् |

IMG_4073

किञ्चित् कालानन्तरं यन्त्रस्य वार्षिकसेवासमये (yearly service time) यदा नालिकया नीडमाकृष्ट्ं तदा नीडस्य मात्रं दृष्ट्वा अत्याश्चर्यमभवत् | ४ अङ्गुलि लम्भस्य पक्षिणः नीडं ३२ अङ्गुलि आसीत् !

IMG_4396
Disclaimer:
संस्कृतं न जानामि न जानामि पाणिनिम्।
पदार्थमपि  न जानामि क्षमस्व वागीश्वरि॥