भारतवैभवम्

January 26, 2016

मया कृष्णमूर्ति-भट्टात् भारतदेशस्य वैभवस्य विवरणयुक्तं पद्यमेकं स्वीकृतम् | पञ्च श्लोकयुक्तमिदं पद्यं सरलतया गातुं शक्यते |

भारतवैभवम्

शैलशृङ्गवासिनीं परात्परां पुरातनीम् देवसिन्धुनर्मदादि सिन्धुसङ्घशोभिनीम्|
व्यास-भास-कालिदास शारदैः सुशोभिताम् नमामि भक्तिभावनैः भारतं मे मातरम् || १ ||

रामकृष्ण-शङ्करादि योगिभिः सुपूजिताम् भोजराज राजराज पौरवैस्सुपालिताम्|
गान्धि-शास्त्रि-मालवीय सेवकैस्सुरक्षिताम् नमामि भक्तिभावनैः भारतं मे मातरम् || २ ||

अङ्गवङ्गसिन्धुराष्ट्रकूटकोटिसंयुताम् हिन्द्वरब्बिसागरादि सागरैर्नमस्कृताम् |
शैलराजविन्ध्यसह्यपर्वतैरलङ्कृताम् नमामि भक्तिभावनैः भारतं मे मातरम् || ३ ||

वेदशास्त्रब्रह्मज्ञान – पण्डितैरलङ्कृताम् नाटकादि काव्यगान गायकैस्सुशोभिताम् |
वेणुतन्त्रिवाद्यनादसुस्वरैस्सुश्राविताम् नमामि भक्तिभावनैः भारतं मे मातरम् || ४ ||

हिन्दुजैनसिख्खबैद्धमानवान् सुपोषिताम् देववाणिकन्नडादि भारतीभिस्संयुतां |
भारतीयभावनां च मानवेषु पूरिताम् नमामि भक्तिभावनैः भारतं मे मातरम् || ५ ||

इदं गानं तूणकम् इति छन्दसि अस्ति।

ಭಾರತವೈಭವಮ್

ಶೈಲಶೃಂಗವಾಸಿನೀಂ ಪರಾತ್ಪರಾಂ ಪುರಾತನೀಂ ದೇವಸಿಂಧುನರ್ಮದಾದಿ ಸಿಂಧುಸಂಘಶೊಭಿನೀಂ |
ವ್ಯಾಸ-ಭಾಸ-ಕಾಲಿದಾಸ ಶಾರದೈಃ ಸುಶೋಭಿತಾಂ ನಮಾಮಿ ಭಕ್ತಿಭಾವನೈಃ ಭಾರತಂ ಮೆ ಮಾತರಂ || ೧ ||

ರಾಮಕೃಷ್ಣ-ಶಂಕರಾದಿ ಯೋಗಿಭಿಃ ಸುಪೂಜಿತಾಂ ಭೋಜರಾಜ ರಾಜರಾಜ ಪೌರವೈಸ್ಸುಪಾಲಿತಾಂ |
ಗಾಂಧಿ-ಶಾಸ್ತ್ರಿ-ಮಾಲವೀಯ ಸೇವಕೈಸ್ಸುರಕ್ಷಿತಾಂ ನಮಾಮಿ ಭಕ್ತಿಭಾವನೈಃ ಭಾರತಂ ಮೆ ಮಾತರಂ || ೨ ||

ಅಂಗವಂಗಸಿಂಧುರಾಷ್ಟ್ರಕೂಟಕೋಟಿಸಂಯುತಾಂ ಹಿಂದ್ವರಬ್ದಿಸಾಗರಾದಿ ಸಾಗರೈರ್ನಮಸ್ಕೃತಾಂ |
ಶೈಲರಾಜವಿಂಧ್ಯಸಹ್ಯಪರ್ವತೈರಲಂಕೃತಾಂ ನಮಾಮಿ ಭಕ್ತಿಭಾವನೈಃ ಭಾರತಂ ಮೆ ಮಾತರಂ || ೩ ||

ವೇದಶಾಸ್ತ್ರಬ್ರಹ್ಮಜ್ಞಾನ – ಪಂಡಿತೈರಲಂಕೃತಾಂ ನಾಟಕಾದಿ ಕಾವ್ಯಗಾನ ಗಾಯಕೈಸ್ಸುಶೋಭಿತಾಂ |
ವೇಣುತಂತ್ರಿವಾದ್ಯನಾದಸುಸ್ವರೈಸ್ಸುಶ್ರಾವಿತಾಂ ನಮಾಮಿ ಭಕ್ತಿಭಾವನೈಃ ಭಾರತಂ ಮೆ ಮಾತರಂ || ೪ ||

ಹಿಂದುಜೈನಸಿಖ್ಖಬೌದ್ಧಮಾನವಾನ್ ಸುಪೋಷಿತಾಂ ದೇವವಾಣಿಕನ್ನಡಾದಿ ಭಾರತೀಭಿಸ್ಸಂಯುತಾಂ |
ಭಾರತೀಯಭಾವನಾಂ ಚ ಮಾನವೇಷು ಪೂರಿತಾಂ ನಮಾಮಿ ಭಕ್ತಿಭಾವನೈಃ ಭಾರತಂ ಮೆ ಮಾತರಂ || ೫ ||

प्रतिवर्षं वयं प्रतिवेशिनः मिलित्वा भारतस्य गणराज्योत्सवं स्वातन्त्र्यदिनं च आचरामः | अस्मिन् गणराज्योत्सवदिने पद्यमिदं बालाभिः गायनं करणीयमिति विचिन्त्य दशदिनपर्यन्तं प्रशिक्षणं दत्वा अद्य ध्वजारोहणमुहुर्ते बालाः इमां गीतां अगायन्। अस्य video अत्र द्र्ष्टुं शक्यते |