पक्षिणः जननम् (Birth of Bulbuls)

June 29, 2014
मम गृहस्य परिसरे विद्यमानानां पक्षिणः विषये अत्र, अत्रअत्र पूर्व्ं मया लिखितमस्ति | गृहसस्याणि खगान् आकर्षयन्ति इति विचारे मम गृहमेव प्रमाणमित्यहं मन्ये| एकदा पाकशालायाः नालिकायामेव नीडनिर्माणं कृतं पक्षिणा| अद्यत्वे द्वौ पक्षिणौ अस्माकमुद्याने निवेशनं कृत्वा शिशू प्राप्तवन्तौ । अस्य वृत्तन्तस्य विवरणं करोमि अत्र|
Bulbul's nest

Bulbul’s nest

उद्यानस्य एकस्मिन् भागे मल्लिका लता अस्ति। तत्र वयं अनेकवारं न गच्छामः । एकदा तस्यां लतायां नीडमेकं दृष्टवान् । सामान्यतः पक्षी सुरक्षितस्थले नीडस्य रचनं करोति, किन्तु एतत् नीडं भूम्याः निकटे एव आसीत्। अपि च नीडे अल्पाकारयुक्तौ पिङ्गलवर्णबिन्दुयुक्तौ द्वौ अण्डौ आस्तां!

Bulbul's eggs

Bulbul’s eggs

अण्डं तु दृष्टवान् किन्तु कस्य खगस्य अण्डमिति ज्ञातुं पार्श्वे स्थित्वा पक्षिणः निरीक्षणं कृतवान्|  किञ्चित्कालानन्तरं नीडस्योपरि उपविशन्तं मस्तके किरीटसदृश पक्षयुक्तं पक्षिणं दृष्टवान्| एषः पक्षी बेङ्गलूरु-नगरे सामान्यतः दृश्यते| अस्य नाम आङ्गलभाषायां Red-whiskered Bulbul इति अस्ति| K N Dave महोदयेन लिखितं “Birds in Sanskrit Literature” पुस्तके अस्य नाम गोवत्सकः इति दत्तमस्ति|

Red-whiskered bulbul

Red-whiskered bulbul

पश्चात् नितराम् नीडे एव उपविशन्तं पक्षिणं दृष्टवन्त:। दिनद्वयानन्तरम् अण्डाभ्यां द्वौ अरोमयुक्तौ शिशू बहिरागतवन्तौ। जन्मस्य तत्क्षणं तौ पक्षिणः शिशवः इव न दृश्येते स्म ।

Bulbul chicks - right after birth

Bulbul chicks – right after birth

यदा द्वित्राणि दिनानि अतीतानि, रोमं पक्षं च प्रप्तवन्तौ। शिशोः प्रथम-उड्डयनं द्रष्टुम् अस्माकम् आशा आसीत् किन्तु कदा पक्षिण: सर्वे नीडं त्यक्तवन्तः इति न अवगतमेव अस्माभिः!

4 days old bulbul chicks

4 days old bulbul chicks

Disclaimer:
संस्कृतं न जानामि न जानामि पाणिनिम्।
पदार्थमपि  न जानामि क्षमस्व वागीश्वरि॥